प्रश्नः 1. उच्चारणं कुरुत-
कस्मिंश्चित्, विचिन्त्य, साध्विदम्, क्षुधार्तः, एतच्छ्रुत्वा, भयसन्त्रस्तमनसाम्, सिंहपदपद्धतिः, समाह्वानम्, प्रतिध्वनिः।
प्रश्न 2. एकपदेन उत्तरं लिखत
(क) सिंहस्य नाम किम्?
उत्तरम् – खरनखरः ।
(ख) गुहायाः स्वामी कः आसीत्?
उत्तर- शृगालः ।
(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः ?
उत्तर-सूर्यास्तसमये ।
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?
उत्तर- -भयसन्त्रस्तमनसाम् ।
(ङ) गुहा केन प्रतिध्वनिता?
उत्तर- सिंहेन ।
प्रश्न 3. पूर्णवाक्येन उत्तरत
(क) खरनखरः कुत्र प्रतिवसति स्म ?
उत्तरम् -खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म ।
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?
उत्तरम् – सिंह: अचिन्तयत्-“नूनम् एतस्यां गुहायां रात्रो कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि।”
(ग) शृगालः किम् अचिन्तयत् ?
उत्तरम्-शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि । नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि । तत् किं करवाणि?”
(घ) शृगालः कुत्र पलायितः ?
उत्तरम् – शृगाल: दूरं पलायितः ।
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
उत्तरम् – गुहासमीपमागत्य शृगालः पश्यति यत् “सिंहपदपद्धतिः गुहायां प्रविष्टाः दृश्यते, न च बहिरागताः।”
(च) कः शोभते?
उत्तरम्-य: अनागतं कुरुते सः शोभते ।
प्रश्न 4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान् ?
(ख) दधिपुच्छः नाम शृगालः गुहाया: स्वामी आसीत् ।
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते
(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति ।
उत्तरम् – प्रश्ननिर्माणम्
(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) किम् नाम शृगालः गुहायाः स्वामी, आसीत्?
(ग) एषा गुहा कस्य सदा आह्वानं करोति ?
(घ) भयसन्त्रस्तमनसां काः क्रियाः न प्रवर्तन्ते ?
(ङ) आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति ?
प्रश्न 5. घटनाक्रमानुसारं वाक्यानि लिखत
(क) गुहाया: स्वामी दधिपुच्छः नाम शृगालः समागच्छत् ।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्
(ग) परिभ्रमन् सिंहः क्षुधार्तो जातः ।
(घ) दूरस्थः शृगालः रवं कर्त्तुमारब्धः ।
(ङ) सिंह: शृगालस्य आह्वानमकरोत् ।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।
उत्तरम् –
(i) (ग) परिभ्रमन् सिंहः क्षुधार्तो जातः ।
(ii) (ख) सिंह: एकां महतीं गुहाम् अपश्यत् ।
(iii) (क) गुहाया: स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(iv) (छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।
(v) (घ) दूरस्थ: शृगालः रवं कर्त्तुमारब्धः
(vi) (ङ) सिंहः शृगालस्य आह्वानमकरोत् ।
(vii) (च) दूरं पलायमानः शृगालः श्लोकमपठत् ।
प्रश्न 6. यथानिर्देशमुत्तरत
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
(ख) तदहम् अस्य आह्वानं करोमि- -अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम् ?
(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं
किम् ?
(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन्
वाक्ये क्रियापदं किम् ?
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये
अव्ययपदं किम् ?
उत्तराणि- (क) अस्मिन् वाक्ये द्वे विशेषणपदे स्तः- एकाम्, महतीम् ।
(ख) अत्र ‘अहम्’ इति पदं सिंहाय प्रयुक्तम् ।
(ग) अत्र ‘त्वम्’ इति कर्तृपदम् ।
(घ) अत्र ‘दृश्यते’ इति क्रियापदम् ।
(ङ) अस्मिन् वाक्ये ‘अत्र’ इति अव्ययपदम्।
प्रश्न 7. मञ्जूषातः अव्ययपदानि चित्वा रिक्त स्थानानि पूरयत।
( कश्चन, दूरे, नीचैः, यदा, तदा,यदि, तर्हि,परम्,च,सहसा)
उत्तरम् – एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्यं दूरे स्थितः । क्रमशः आकाशात् सपरिवार: कपोतराजः नीचैः आगच्छत् । यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः । परं राजा सहमतः नासीत् । तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति तर्हि कुतः तण्डुलानाम् सम्भवः । राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः । अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’ ।
No comments:
Post a Comment